व्रतोपवासोज्झितगर्ववृत्तिना मम प्रसन्ना वपुषैव लक्ष्यते॥ १११॥
५. कुमार्यनूढा यथा—(रघु. ६.८०)
ततः सुनन्दावचनावसाने लज्जां मृदूकृत्य नरेन्द्रकन्या।
दृष्ट्या प्रसादामलया कुमारं पर्यंग्रहीत् संवरणस्रजेव॥ ११२॥
६. अन्यपरिग्रहः परकीया यथा—(गास. ४.३३)
मुहविज्झविअपईवं णिरुद्धसासं ससङ्किओल्लावं।
सवह—सअ—रक्खिओठ्ठं चोरिअरमिअं सुहावेइ॥ ११३॥
(मुखाविघ्मापितप्रदीपं निरुद्धश्वासं सशङ्कितोल्लापम्।
शपथशतरक्षितोष्ठं चोरितरमितं सुखयति॥)
७. स्वयमुपगताभिसारिका यथा—(गास. १.२०)