सामन्तमौलिमणिरञ्जितशासनाङ्कमेकातपत्रमवनेर्न तथा प्रभुत्वम्।
अस्यास्सखे! चरणयोरधिगम्य सम्यगाज्ञाकरत्वमहमद्य यथा कृतार्थः॥ १०१॥
११. अन्यमना अपि गौरवादेरनपहारी दक्षिणो यथा—(सक. ५.४४९)
प्रत्यग्रोज्झितगोकुलस्य शयनादुत्स्वप्नमूढस्य मा मा गोत्रस्खलनादुपैतु यदि वा राधेति भीरोरिति।
रात्रावस्वपतो दिने च विजने लक्ष्मीति चाभ्यस्यतो राधां संस्मरतः कथं रमयतः खेदो हरेः पातु वः॥ १०२॥
१२. विलासप्रधानो धीरललितो यथा—
मधु च विकसितोत्पलावतंसं शशिकरपल्लवितं च हर्म्यपृष्ठम्।
मदनजनितविभ्रमा च कान्ता सुखमिदमर्थवतां विभूतयोऽन्याः॥ १०३॥
एतेषां च प्रायोऽनन्यचितत्वेन रागभूयिष्ठतया स्थित्यनतिक्रमेण विलासितया च सम्पूर्ण एव रत्युपचारो भवति।
सम्यक्त्वाद् उत्तमः—'स सात्त्विकोऽनुकूलो धीरोदात्त' इति। तेषु