अयं जनः प्रष्टुमनास्तपोधने! न चेद्रहस्यं प्रतिवक्तुमर्हसि॥ ८२॥
अनुक्रमो यथा—(कुसं. ५.४१)
कुले प्रसूतिः प्रथमस्य वेधसस्त्रिलोकसौन्दर्यमिवोदितं वपुः।
अमृग्यमैश्वर्यसुखं नवं वयः तपः फलं स्यात् किमितः परं तव॥ ८३॥
४. (पदविग्रहः) प्र[स्तुतस्यास्वीकारोऽप्यनुपपन्न इति कथनं पदविग्रहः]१ तदपि त्रेधा — 'वितर्कविस्मयविप्रतिषेधभेदात्। तेषु —'
भवत्यनिष्टादपि नाम दुस्सहान्मनस्विनां सम्प्रतिपत्तिरीद्ृशी।
विचारमार्गप्रहितेन चेतसा न दृश्यते तच्च कृशोदरि! त्वयि॥ ८४॥
अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्रु! कुतः पितुर्गृहे।