विकीर्णसप्तर्षिबलिप्रहासिभिः तथा न गाङ्गैः सलिलैर्दिवश्चयुतैः।
यथा त्वदीयैश्चरितैरनाविलैः महीधरः पावित एव सान्वयः॥ ७९॥
प्रक्षेपो यथा—(कुसं. ५.३८)
अनेन धर्मस्सविशेषमद्य मे त्रिवर्गसारः प्रतिभाति भामिनि!।
त्वया मनोनिर्विषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते॥ ८०॥
३. तत्प्रयोगः पदार्थः। सोऽपि त्रेधा—उपक्रमः, प्रक्रमः, अनुक्रम इति। तत्र उपक्रमो यथा—(कुसं. ५. ३९)
प्रयुक्तसत्कारविशेषमात्मना न मां परं सम्प्रतिपत्तुमर्हसि।
यतस्सतां सन्नतगात्रि! सङ्गतं मनीषिभिस्साप्तपदीनमुच्यते॥ ८१॥
प्रक्रमो यथा—(कुसं. ५.४०)
अतोऽत्र किञ्चित् भवतीं बहुक्षमां द्विजातिभावादुपपन्नचापलः।