पत्रशब्देन इह च्छद्मव्याजयोः प्रवेशनिमित्तत्वेनेष्टत्वात्।
७९. मन्त्राराधनादिभिः नायकयोस्संयोगं साधयन्ती मन्त्रदूती, यथा—
दर्शयामि शशिनं महीतले पातयामि तपनं नभःस्थलात्।
आनयामि सुरसिद्धकन्यकां नास्ति मे नसुकरं जगत्त्रये॥ ६७॥
८०. तन्त्रादिप्रभेदादुभयोः संयोगसम्पादयित्री तन्त्रदूती, यथा—
गुरुचर्यातपस्तन्त्रमन्त्रयोगाभियोगजाम्।
इमामाक्षेपिणीं सिद्धिमातनोति हिताय वः॥ ६८॥
अनयोरन्तरं नास्ति, नायकयोः पराधीनतया नीयमानत्वात्।
मूकदूत्यौ पुनरिमे तच्चेष्टानुकृतियोगात्। न च निसृष्टार्थानामविषयस्सम्भवति। स हि मितार्थः पत्रहारको मूकदूतो वा भवितुं शक्नुयात्। एवं मितार्थः, पत्रहारकः, मूकदूतो वा; पत्रहारको मूकदूत एवेति। न तु मितार्थो निसृष्टार्थः पत्रहारकः। मितार्थः निसृष्टार्थो वा न मूकदूतः। पत्रहारकः मितार्थो निसृष्टार्थो वेति। एवं भिक्षुकीक्षणिके, सखीधात्रेयिके, दासीविधवे, शिल्पिनीशिल्पकारिके च निसृष्टार्थाः। भिक्षुकीक्षणिकावर्जमेव परिमितार्थाः। दासीविधवे, शिल्पिनीशिल्पकारिके मूकदूत्यौ, न तु भिक्षुकीक्षणिके परस्परार्थपत्रहारिण्यौ मूकदूत्यौ वा। न सखीधात्रेयिके पत्रहारिण्यौ मूकदूत्यौ वा। न दासीविधवे मूकदूत्याविति स्यात्। एवं न स्वयंदूतीवातदूत्यौ परिमितार्थे पत्रहारिण्यौ वा। न मूकदूतीभार्यादूत्यौ पत्रहारिण्यौ मूकदूत्यौ वा। न च्छद्मदूतीव्याजदूत्यौ मूकदूत्यौ स्याताम्। नानिसृष्टार्थे मन्त्रदूतीतन्त्रदूत्याविति। निसृष्टार्थास्तु सर्वाः स्वयंदूत्यादयः भवेयुः। द्वे द्वे वर्जयित्वा परिमितार्थापत्रहारिण्यौ मूकदूत्यश्चेति। एतेन ॰ ॰ ॰ त्रसम्बद्धा राजसम्बद्धास्तत्रैकदेशचारिण्यः काश्चिदन्या वा कार्यसम्पादिन्यः चण्डरण्डावृद्धवर्धक्यो बुद्धिमद्गणिकाः गणाङ्गनाश्च व्याख्याताः। रजक—नापित—स्वर्णकार—मणिकार—वैद्य—वैदिक—नर्तक—गायन—वादक—वाग्जीवन— वाणिज्यशीलवाग्ग्मिनश्च दूतविशेषाः इति॥