जस्स णिसण्णाए उरे सिरीए पेम्मेण लहइओ अप्पाणो॥ ८९॥
(दृष्टा कुपितानुनया प्रिया सहस्रजनप्रेरणमपि विसोढम्।
यस्य निषण्णया उरसि श्रियः प्रेम्णा लघूकृत आत्मा॥)
१.१.७ (क) वयोरूपजात्यादीनां परभागे चारुः ; यथा—(रघु. ६.६५)
इन्दीवरश्यामतनुर्नृपोऽसौ त्वं रोचनागौरशरीरयष्टिः।
अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु॥ ९०॥
१.१.७ (ख) तद्विपर्यये अचारुः ; यथा—(मामा. २.८)
राज्ञः प्रियाय सुहृदे सचिवाय कार्याद् दत्त्वाऽऽत्मजां भवति/तु निर्वृतिमानमात्यः।
दुर्दर्शनेन घटतामियमप्यनेन धूमग्रहेण विमला शशिनः कलेव॥ ९१॥
१.१.७ (ग) गुणदोषयोः सद्भावे उभयात्मा ; यथा—(बारा. १.३६)