१.१.८ (ग) अतिप्रकाशः प्रकटः ; यथा—
इअरो जणो ण आणइ धण्णाण संजमिआइ पेम्माइं।
अम्हं मणोरहा दुक्खआण रच्छासु गिज्जंति॥ ९५॥
(इतरो जनो न जानाति धन्यानां सुसज्जितानि प्रेमाणि।
अमृत/तं मनोरथा दुःखगा न रथ्यासु गीयन्ते/कीर्यन्ते॥
(१.२ नैमित्तिकानुरागः —२४)
अथ नैमित्तिकानुरागः। सोऽपि चतुर्विंशतिधा, काल—समय— वेलोपाधि—साधन—समावेश—देश—प्रकीर्णक—त्रैविध्यात्। तेषु —
१.२.१. कालः—हेमन्त—वसन्त—वर्षादिः। तन्निमित्तः—