भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 471 to 480 of 515 verses
तत्र सानन्तरद्विकानां चतुर्णामितरविप्रलम्भेभ्य एकैकहान्या द्वाभ्यां योगे प्राग्वदेव द्वादश। सानन्तरैश्च सानन्तराणां त्रिभिर्द्वाभ्यामेकेनेति योगे प्राग्वदेव षट्। चतुर्भिश्च विप्रलम्भैरेक इति, पञ्चभिः पञ्चभिः षोडश। तत्र सानन्तरद्विकानां त्रिभिस्त्रिभिरितरविप्रलम्भैर्योगे चतुर्णां चत्वारः सोऽसानन्तरद्विकद्वयीनां च षण्णामितरविप्रलम्भयोः पृथक्‌पृथगेकैकेन योगे द्वादशेति षड्भिः षड्भिर्दश। तत्रैकैः सानन्तरद्विकहान्या सानन्तरैश्चत्वारः। सानन्तरद्विकद्वयीनां च षण्णामितरविप्रलम्भा(नां) x x योगे षडिति सप्‍तभिः सप्‍तभिश्चत्वारः। तत्रैकैकमनन्तरं सम्भोगमेव जह्यात्। विप्रलम्भत्यागे सम्भोगस्य तदनन्तरव्यपदेशाभावात् अष्टक इत्येकत्वे(?) भेदा अशीतिः।

तेषां नित्यादिसम्भेदभेदः प्रत्येकमिष्यते।

द्विशती तत्प्रभेदानां पञ्चपञ्चाशदुत्तरम्॥ ९९॥

स्थितानामग्रिमैर्योगेऽनन्तराणामनन्तरैः ।

नित्यादिषु यथायोगं सम्भवे स्यादसंख्यता॥ १००॥

तथाहि, नित्यादयः पृथगवनतेऽनन्तरैर्योगे सप्‍त षट् पञ्च चत्वारः त्रयो द्वावेक इति द्विका अष्टाविंशतिः। एवं द्विकानामनन्तरैर्योगे चतुष्काः सप्‍ततिः। चतुष्काणां पञ्चकाः षट्पञ्चाशत्। पञ्चकानां षट्का अष्टविंशतिः। षट्काणां सप्‍तका अष्टौ। सप्‍तकानामष्टक एक एव। चतुरादिभ्योऽन्येषामसम्भवात् न प्रस्तारवृद्धिः।

तत्राष्टकयोगो यथा—(विक्रमो. २.१६)

मया नाम जितं यस्य त्वयाऽयं समुदीर्यते।

जयशब्दः सहस्राक्षादागतः पुरुषान्तरम्॥ १०१॥

सप्‍तकेषु नित्यनैमित्तिकसामान्यविशेषप्रकाशप्रच्छन्नाकृत्रिमाणां योगो यथा— (गास. २.९७. वल. ४७६)

Showing 471 to 480 of 515 verses