पउर—जुआणो गामो महुमासो जोव्वणं पई ठेरो।
जुण्णसुरा साहीणा असई मा होउ, किं मरउ?॥ १०२॥
(प्रचुरयुवा युवको ग्रामो मधुमासो यौवनं पतिः स्थविरः।
जीर्णसुरा स्वाधीना असती मा भवतु, किं म्रियताम्?॥)
षट्केषु नित्यनैमित्तिकप्रकाशप्रच्छन्नविशेषाकृत्रिमाणां योगो यथा—(मामा. ६.६)
इयमवयवैः पाण्डुक्षामैरलङ्कृतमण्डना कलितकुसुमा वल्लीवान्तर्लता परिशोषिणी।
वहति च वरारोहा रम्यां विवाहमहोत्सव— श्रियमुदयिनीमत्यर्थं च व्यनक्ति मनोरुजम्॥ १०३॥
पञ्चकेषु नित्यनैमित्तिकविशेषप्रच्छन्नाकृत्रिमाणां योगो यथा—(विक्रमो. २.६)
इदमसुलभवस्तुप्रार्थनादुर्निवारं॥ १०४॥