तुल्यं तयोस्तत्क्षणमात्मवृत्तिर्व्यक्तं विभक्तेव मनोभवेन॥ १०८॥
एवमन्येऽपि यावत्प्रभेदमुदाहर्तव्याः। तत्रैकशोऽष्टौ; द्विशोऽष्टाविंशतिः; त्रिशः षट्पञ्चाशत्; चतुर्भिश्चतुर्भिः सप्ततिः; पञ्चभिः षट्; षड्भिः षड्भिरष्टाविंशतिः; सप्तभिः सप्तभिरष्टौ; अष्टभिश्चैक इत्येकत्वे पञ्चपञ्चाशद् द्वे शते। अशीतिघातान् सहस्त्रैकान्नविंशतिः त्रिशती षष्टिश्च भवति।
सन्निकर्षविप्रकर्षप्रकर्षापकर्षवत्यो व्यतिकरप्रक्लृप्तय इति। तत्र— प्रत्यासन्नता सन्निकर्षः। विदूरता विप्रकर्षः। सन्निवेशचारुता प्रकर्षः। प्रकर्षविपर्ययो ह्यपकर्ष इति। तद्वत्यो नित्यादीनां प्रथमानुरागादीनां च व्यतिकरप्रकल्पना इति। तत्र नित्यादिषु सन्निकर्षवत्यः सजातीयानां, विप्रकर्षवत्यो विजातीयानां, प्रकर्षवत्यः अकृत्रिमादीनाम्। प्रथमानुरागादिषु सन्निकर्षवत्यो विप्रलम्भानां, विप्रकर्षवत्यः सम्भोगानां, प्रकर्षवत्यः सम्भोगान्तानां, अपकर्षवत्यो विप्रलम्भान्तानामिति।
स्वभावविपरामर्शैः सन्निकर्षादयो द्विधा।
अव्यवस्थाव्यवस्थाभिर्द्वेधा व्यतिकरक्रमः॥ १०९॥
(एवं) पूर्वानुरागादौ व्यवस्थानस्वभावयोः।
नित्यादावव्यवस्थानविपरामर्शयोः श्रुतिः॥ ११०॥
दिङ्मात्रमेतदुदितं प्रथमानुरागमानप्रवासकरुणैस्तदनन्तराणाम्।
भूयश्च रूपमखिलं खलु विप्रलम्भसम्भोगयोरनतिविस्तरतो वदामः॥ १११॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे विप्रलम्भसंभोगप्रकाशनो नाम