चतुष्केषु नित्यविशेषप्रच्छन्नाकृत्रिमाणां योगो यथा—(मामा. १.१५)
भूयोभूयः सविधनगरीरथ्यया॥ १०५॥
त्रिकेषु नित्यनैमित्तिकाकृत्रिमाणां योगो यथा—(मामा. ३.१४)
प्रकृतिललितमेतत् सौकुमार्यैकसारं वपुरयमपि सत्यं दारुणः पञ्चबाणः।
चलितमलयवातोद्धूतचूतप्रसूनः कथमयमपि कालश्चारुचन्द्रावतंसः॥ १०६॥
द्विकेषु सामान्यविशेषयोर्योगो यथा—(शाकु. १.१५)
शान्तमिदमाश्रमपदम्॥ १०७॥ इत्यादि (पृ. १३०५)
केवलेषु नित्ययोगो यथा—(रघु. ७.२२)
अभूद् वरः कण्टकितप्रकोष्ठः स्विन्नाङ्गुलिः संववृते कुमारी।