भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 461 to 470 of 515 verses
यत्र संविधानके यावतां प्रथमानुरागादीनामस्तित्वं तावन्तस्तत्र संविधीयन्ते।

क्‍वचिदेक एव। यथा—प्रवासो मेघदूते।

क्‍वचिद् . . . . (द्वय) यथा—प्रथमानुराग—(प्रथमानुराग)/?/नन्तरौ उषाहरणे।

क्‍वचित् त्रयं; यथा— प्रथमानुरागप्रवासकरुणाः कादम्बरी—प्रथमखण्डे।

क्‍वचित् चत्वारः; यथा— मान—मानानन्तर—प्रवास—प्रवासानन्तराः हरिविजये।

क्‍वचित् पञ्च; यथा— प्रथमानुराग—प्रथमानुरागानन्तर—करुण—करुणानन्तर— प्रवासा नागानन्दे।

कवचित् षड्; यथा— प्रथमानुराग—प्रथमानुरागानन्तर—करुण—करुणानन्तर— प्रवास—प्रवासानन्तराः मालतीमाधवे।

क्‍वचित सप्‍त; यथा— प्रथमानुराग—प्रथमानुरागानन्तर—(मान—मनानन्तर) प्रवास—प्रवासानन्तर—करुणाः कुमारसम्भवे।

क्‍वचिदष्टौ; यथा— प्रथमानुरागप्रथमानुरागानन्तरमानमानानन्तर(प्रवास— प्रवासानन्तर)—करुण—करुणानन्तराः तापसवत्सराजे।

एवं संविधानकानुरूपाः सर्वत्र विप्रलम्भसम्भोगयोः प्रकारसंविधयो विधातव्याः। ते चैकशो विप्रलम्भानामेव चत्वारः। सम्भोगवर्गस्तु निर्विशेषेणानन्तरव्यपदेशं न लभते। द्वाभ्यां द्वाभ्यां दश। तत्र विप्रलम्भैः सानन्तरैश्चत्वारः प्रथमानुरागस्य। मानप्रवासकरुणैः मानस्य। प्रवासकरुणाभ्यां प्रवासस्य करुणेन सम्प्रयोगे षडिति त्रिभिस्त्रिभिः षोडश। तत्र सानन्तरद्विकानां चतुर्णामितर— विप्रलम्भैस्त्रिभिस्त्रिभिर्व्यस्तैर्योगे द्वादश। समस्तैस्तैरेव चत्वार इति चतुर्भिश्चतुर्भिरेकोनविंशतिः।

Showing 461 to 470 of 515 verses