आगन्तोर्बलवतः स्थितानुगमः; यथा—(विक्रमो. ५.१६)
आश्वासितस्य मम नाम सुतोपलब्ध्या सद्यस्त्वया सह कृशोदरि! विप्रयोगः।
व्यावर्तितातपरुजः प्रथमाभ्रवृष्ट्या वृक्षस्य वैद्युत इवाग्निरुपस्थितोऽयम्॥ ९४॥
स्थिते बलवति आगन्त्वनुगमः ; यथा—(मामा. ५.३१)
प्रणयसखीसलीलपरिहासरसाधिगतैः ललितशिरीषपुष्पहननैरपि ताम्यति यत्।
वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः॥ ९५॥
एतेन बहूनामप्युपगमे निपाते सम्पर्कानुगमसंविधिर्व्याख्यातः। तत्र—
सजातीयसम्पर्को यथा—(मामा. ५.२८)