विलिम्पत्येतस्मिन् मलयजरसार्द्रेण महसा दिशां चक्रं चन्द्रे सुकृतमयि/मथ तस्या मृगदृशः।
दृशोर्बाष्पः पाणौ वदनमसवः कण्ठकुहरे हृदि त्वं ह्रिः पृष्ठे वचसि च गुणा एव भवतः॥ १०१॥
६. (२.३) शरद्धेमन्तशिशिरवसन्तग्रीष्मवर्षारूपः) प्रायोगिकः।
इदमसुलभवस्तुप्रार्थनादुर्निवारं प्रथममपि मनो मे पञ्चबाणः क्षिणोति।
किमुत मलयवातोन्मूलितापाण्डुपत्रै— रुपवनसहकारैर्दर्शितेष्वङ्कुरेषु॥ १०२॥
तेऽमी त्रयोऽपि नैमित्तिकभेदाः।
७. (३.१) नित्यत्वेऽप्येषामुपभोगादेर्निमित्तत्वाद् मदप्रमदाभ्युदयोत्सवव्यसनपरिहारादिरूप आगन्तुः। यथा—(अमरु. ४१)