तेनाष्टौ परिगमिताः समाः कथञ्चिद् बालत्वादवितथसूनृतेन सूनोः।
सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागमोत्सवैश्च॥ ९९॥
तेऽमी त्रयोऽपि नित्यभेदाः; नित्यरूपेणैवानिवारितप्रवृत्तित्वात्।
४. (२.१) प्रातः प्रत्यूषप्राह्णमध्याह्नापराह्णसन्ध्यारूप औद्योगिकः।
यथा—(सक. ४.१७९) (पृ. २८३)
शय्यन्ते हतशायिकाः पथि तरुच्छायानिषण्णाध्वगैः श्रीकण्ठायतनेषु धार्मिकजनैरास्यन्त उष्ट्रासिकाः।
शून्ये तेऽत्र(तत्र?) निकुञ्जशायिनि सखि! ग्रीष्मस्य मध्यन्दिने सज्जानां दयिताभिसारणविधौ रम्यः क्षणो वर्तते॥ १००॥
५. (२.२) निशामुखप्रदोषनिशीथापररात्रचन्द्रोदयन्द्रास्तमयरूप औपभोगिकः।