ओसूसइ वंदणमालिअ व्व दिअह च्चिअ वराई॥ ९१॥
(सा तव कृतेन बालक! नित्यं गृहद्वारतोरणनिषण्णा।
अवशुष्यति वन्दनमालिकेव दिवस एव वराकी॥)
अत्र गृहद्वारतोरणनिषण्णत्वेन वन्दनमालासन्निधेः दिने दिने सापि शुष्यति कृशायते रणरणायते चेति क्रमः।
५. मुख्यक्रमो यथा—(गास. ३.४४)
वेविर—सिण्ण—करंगुलि—परिग्गह—क्खलिअ—लेहणीमग्गे।
सोत्थि च्चिअ ण समप्पइ पिअसहि लेहंमि किं लिहिमो॥ ९२॥
(वेपनशीलस्विन्नकाराङ्गुलिपरिग्रहस्खलितलेखनीमार्गे।
स्वस्त्येव न समाप्यते प्रियसखि! लेखे किं लिखामः॥)
अत्र स्वस्तिशब्दस्य माङ्गलिकत्वेन मुख्यत्वाल्लेखे प्राङ्निवेशस्ततो व्यवहितस्थाननाम्नोरथ प्रतियोगिनोऽनन्तरमक्षरस्य, ततः सन्देशस्येति क्रमः।