विरहे ण देंति मरिउं अहो गुणा तस्स बहुमग्गा॥ ८९॥
(ईर्ष्यां जनयन्ति दर्शयन्ति/वर्धयन्ति मन्मथं विप्रियं साहयन्ति।
विरहे न ददति मर्तुमहो गुणास्तस्य बहुमार्गाः॥)
अत्र पूर्वं मन्मथवृद्धिस्तत ईर्ष्या, प्राङ्मरणाभावः, ततो विप्रिय— सहिष्णुत्वमित्यार्थः क्रमः, यथा 'अग्निहोत्रं जुहोति', 'यवागूं पचति' इति।
३. पाठक्रमो यथा—(रघु. ६.६३)
अनेन कल्याणि! करे गृहीते महाकुलीनेन महीव गुर्वी।
रत्नानुविद्धार्णवमेखलाया दिशस्सपत्नी भव दक्षिणायाः॥ ९०॥
अत्र पृथ्वीसामान्याद् दक्षिणासाधर्म्याच्च पूर्वं पतित्वं पश्चात्करग्रहणमित्यर्थे प्राप्ते पाठसामर्थ्यात् पूर्वं करग्रहणं ततः पतित्वमिति क्रमः।
४. स्थानक्रमो यथा—(गास. ३.६२)
सा तुह कएण बालअ णिच्चं घर—दार—तोरण—णिसण्णा।