भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 441 to 450 of 488 verses
६. प्रावृत्तिकक्रमो यथा—(गास. ५.२५)

पढमं वामणविहिणा पच्छा हु कओ विअंभमाणेण।

थणजुअलेण इमीए महुमहणेण व्व बलिबंधो॥ ९३॥

(प्रथमं वामनविधिना पश्चात् खलु कृतो विजृम्भमाणेन।

स्तनयुगलेनैतस्याः मधुमथनेनेव बलिबन्धः॥)

अत्र त्रिविक्रमप्रवृत्तावपि स्तनप्रवृत्तावपि (च) प्राग् वामनत्वं, ततो विजृम्भणं, पश्चाद् बलिबन्ध इति क्रमः। सिद्धेषु च भेदाङ्गाङ्गिभावक्रमेषु शब्दानामनेकार्थत्वेन कदाचिद् यौगपद्येनार्थानामनुष्ठेयत्वादिप्राप्‍तौ तदर्थं निर्धारणापेक्षा।

(४. अधिकारविधिप्रमाणानि —६)

तत्राधिकारविध्यपेक्षितानि समस्तानेकार्थशब्दसाधारणाद्यर्थप्रकरणादीनि षट्प्रकाराणि— 'अर्थः, प्रकरणं, लिङ्गम्, औचित्यं, देशः, काल' इति। निर्धारणं विभागतः पृथक्करणम्। तद्—

१. अर्थतो यथा—(सक. ४.२३०)

गतिर्वेणी च नागेन वपुरूरू च रम्भया।

Showing 441 to 450 of 488 verses