चुंबंति अद्धअच्छं विअत्त/द्ध—जुअईमुहं धण्णा॥ ९६॥
(कलधौतोज्जलगौरं कलधौतसितासु शरद्रात्रिषु।
चुम्बन्ति अर्धक्षं विदग्ध/विवृतयुवतीमुखं धन्याः॥)
अत्र गौरसितशब्दाभ्यां कलधौतशब्दस्य स्वर्णरौप्यवाचकत्वेन यथाक्रमं युवतिमुखशरद्विभावर्योरुपमानविभागः।
४. औचित्यतो यथा—(रघु. ६.८३)
सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः।
आसञ्जयामास यथाप्रदेशं कण्ठे गुणं मूर्तमिवानुरागम्॥ ९७॥
अत्राङ्गनारूपमौचित्यात्। करभशब्देन धनुःकोट्यग्रभागो विधीयते, नोष्ट्रावयव इति।
पउमप्पहं दिअं कं मअच्छि पुंडरिअपुंडरीएण।