भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 461 to 470 of 481 verses
(४. वैपरामर्शः —४)

१०. (४.१) देश्‍यक्रीडाकेलिद्यूतव्रतगोष्ठीप्रेक्षादिरूपः सङ्कीर्णः। यथा—

सखि ! स विजितो वीणाद्यूते कयाऽपि खलु स्त्रिया पणितमभवत् तस्यां तस्मिन् निशाललितं ध्रुवम्।

कथमितरथा शेफालीषु स्खलत्कुसुमास्वपि स्थितवति नभोमध्येपीन्दौ प्रियेण विलम्ब्यते?॥ १०६॥

११. (४. २) विविक्तदीर्घिकोद्यानसौधक्रीडादिदर्शनादिरूपः प्रकीर्णः। यथा—

पान्थ! द्वारवतीं प्रयासि यदि हे! तद्देवकीनन्दनो वक्तव्यः स्मरमन्त्रमोहविवशा गोप्यो न नामोज्झिताः।

एताः केतकपुष्पधूलिपटलैरालोक्य रम्या दिशः कालिन्दीतटभूमयोऽपि तव रे! नो यान्ति चिन्तास्पदम्॥ १०७॥

१२. (४.३) अष्टमीचन्द्रकेन्द्रोत्सव—यक्षरात्रिक—कुन्दचतुर्थी—सुवसन्तक—मदनत्रयोदश्‍या— दिरूपो विप्रकीर्णः। स यथा—(सक. ५.४०६)

अस्मिन् वर्षमहे न वर्तत इदं यत् कामदेवोत्सवे स्थेयं पुत्रि! निरन्नया, तदधुना किञ्चिन्मुखे दीयताम्।

इत्युक्ते जरतीजनेन कथमप्यध्वन्यवध्वा ततः पर्यस्तेऽहनि कल्पितश्च कबलो धौतश्च धारश्रुभिः॥ १०८॥