शृङ्गारप्रकाशे चतुर्विंशः प्रकाशः
तत्र सम्भोगो विप्रलम्भमन्तरेण न प्रकर्षमारोहतीति विप्रलम्भ एव प्रथममुपादीयते।
'नायकयोः प्रागसङ्गतयोः सङ्गतवियुक्तयोर्वा मिथो दर्शनश्रवणाभ्यामवस्थिताभिमानजन्मा परस्परानुरागोऽन्यतरानुरागो वा अभिलषणीयालिङ्गनादीनामनवाप्तौ सत्यां समुपजायमानैस्तैस्तैरुत्कण्ठा— दिभिर्व्यभिचारिभावैर्मनोवाग्बुद्धिशरीरजन्मभिश्चानुभावैरनुविद्धः १प्राप्त— प्रकर्षावस्थो विप्रलम्भश्रृङ्गाराख्यां लभते।
तस्य२ भेदा. — 'प्रथमानुराग—मान—प्रवास—करुण'—विप्रलम्भाः।