भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 451 to 460 of 481 verses
पटालग्‍ने पत्यौ नमयति मुखं जातविनया हठाश्लेषं वाञ्छत्यपहरति गात्राणि शनकैः।

न शक्‍नोत्याख्यातुं स्मितमुखसखीदत्तनयना ह्रिया ताम्यत्यन्तः प्रथमपरिहारा नववधूः॥ १०३॥

८. (३.२) बाल्यकौमारयौवमौग्ध्यमाध्यस्थ्यप्रागल्भ्यरूपो नैसर्गिकः।

यथा—(मामा. १.३५)

मा मूमुहत् खलु भवन्तमनन्यजन्मा मा ते मलीमसविकारघना मतिर्भूत्।

इत्यादि नन्विह निरर्थकमेव यस्मात् कामश्च जृम्भितगुणो नवयौवनं च॥ १०४॥

९. (३.३) परापरयौगपद्यायौगपद्यचिरक्षिप्ररूपः सांसर्गिकः। यथा—

आदौ तावन्नयनगमनस्वागतादिक्रियास्ताः पश्चादीषत्प्रहसितकथाभावसम्प्रेषितानि ।

भावेनान्तर्मनसि घटितः प्रीतिविस्त्रम्भयोगो विस्त्रम्भात् तु प्रसरति शनैः सर्वगात्रेष्वनङ्गः॥ १०५॥

तेऽमी त्रयोऽपि स्वाभाविकभेदाः, स्वभावत एव प्रवर्तमानत्वात्।