विजातीयसम्पर्को यथा—(मवीच. ५.२२)
न्यक्कारो हृदि वज्रकील इव मे तीव्रः परिस्पन्दते घोरान्धे तमसीव मज्जति मनः संमीलितं लज्जया।
शोकस्तार्क्ष्यविपत्तिजो दहति मां नास्त्येव यस्मिन् क्रिया मर्माण्येव पुनश्छिनत्ति करुणा सीतां वराकीं प्रति॥ ९७॥
बह्वनुगमस्थिते बलवति यथा—
क्वाकृत्यं शशलक्ष्मणः॥ ९७॥
आगन्तौ बलवति यथा—(रत्ना. ४.२१)
प्राप्तो विक्रमबाहुरात्मसमतां॥ ९८॥
संविधानकानुरूपास्तत्संविधय इति।