(आन्दोलनलङ्घितवृतिकया दृष्टे त्वयि मुग्धया।
आशंस्यते कर्तुं करप्रेरणनिश्चला डोला॥)
बलाबलानुरूपाः सम्पर्कानुगमभक्तय इति। तत्र तुल्यबलयोर्युगपद् उपनिपाते सम्पर्कः। स द्विधा— सजातीययोर्विजातीययोश्च।
तत्र . . . . . प्रकृतकारणता सजातीयत्वं; यथा—(मामा. ६.९)
नैराश्यकातरधियो हरिणेक्षणायाः श्रुत्वा निकामकरुणं च मनोहरं च।
वात्सल्यमोहपरिदेवितमुद्वहामि चिन्ताविषादविपदं च मनोहरं च॥ ९२॥
विरुद्धाप्रकृतकारणता विजातीयत्वं; यथा—(मामा. १०.१०)
किमयमसिपत्रचन्दनरसच्छटाधारयुगपदवपातः ।
अनलस्फुलिङ्गकलिलः किमयमनभ्रः सुधावर्षः॥ ९३॥
अतुल्यबलयोरनुगमः। सोऽपि द्विधा— स्थितानुगमे, आगन्त्वनुगमे च। तयोः