(सखि! साधय/कथय सद्भावेन पृच्छामः किं अशेषमहिलानाम्।
वर्धन्ते करस्थिता एव वलया दयिते प्रोषिते॥)
कनिष्ठाया मुग्धत्वं सम्भोगे यथा—(गास. २.४५)
सहिआहिँ भण्णमाणा थणए लग्गं कुसुंभपुप्फं ति।
मुद्धवहुआ हसिज्जइ पप्फोडंती णहवआइं॥ ९०॥
(सखीभिर्भण्यमाना स्तनयोर्लग्नं कुसुम्भपुष्पमिति।
मुग्धवधूर्हास्यते प्रस्फोटयन्ती नखपदानि॥)
अंदोलण—लंघिअ—तट्टिआएँ दिट्ठे तुमम्मि मुद्धाए।
आसंघिज्जइ काउं करपेल्लणणिच्चला दोला॥ ९१॥