भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 421 to 430 of 1337 verses
वीक्ष्यते स्म शनकैर्नववध्वा कामिनो मुखमधोमुखयैव॥ ८१॥

१.१.४ (ख) मध्योपक्रमो मध्यः ; स यथा—(किराता. ९.४७)

लोलदृष्टि वदनं दयितायाश्‍चुम्बति प्रियतमे रभसेन।

व्रीलया सह विनीवि नितम्बादंशुकं शिथिलतामुपपेदे॥ ८२॥

१.१.४ (ग) चण्डोपक्रमः चण्डः ; यथा—(सूमु. १५)

धन्याः स्थयाः कथयथ प्रियसङ्गमेऽपि विस्रब्धचाटुकशतानि रतान्तरेषु।

नीवीं प्रति प्रणिहितश्च करः प्रियेण सख्यः! शपामि यदि किञ्चिदपि स्मरामि॥ ८३॥

१.१.५ (क) गुणाधिके पुंसि योषिति वा समुपजायमानः सदृक् ; यथा—

स्थाने तपो दुश्चरमेतदर्थमपर्णया कोमलयाऽपि तप्‍तम्।

या दास्यमप्यस्य लभेत नारी सा स्यात् कृतार्था किमुताङ्कशय्याम्॥ ८४॥

Showing 421 to 430 of 1337 verses