(सा तां स्वहस्तदत्तामद्यापि रे सुभग! गन्धरहितामपि।
उद्वासितनगरगृगदेवतेव अवमालिकां वहति॥)
१.१.२ (ग) पुरुषानुरागे कनीयान् ; यथा—(गास. १.८४)
सो तुह कएण सुंदरि! तह झीणो सुमहिलो हलिअउत्तो।
जह से मच्छरिणीए वि दोच्चं जाआएँ पडिवण्णं॥ ७७॥
(स तव कृतेन सुन्दरि! तथा क्षीणः सुमहिलो हालिकपुत्रः।
यथा तस्य मत्सरिण्याऽपि दूत्यं जायया प्रतिपन्नम्॥)
१.१.३. (क) प्रकृतिवशाज्जने शीघ्रं कालमालम्बमानः शीघ्रः ; यथा—(गास.५.६२)
हत्थप्फंसेण जरग्गई/वी वि पण्हवइ दोहअगुणेण।
अवलोइअ—पण्हुइरिं पुत्तअ दुक्खेहि पाविहिसि॥ ७८॥