गां गतां न वेत्ति व्रीडालुरम्बरं दोग्धि॥)
१.१.२ (क) स्त्रीपुंसयोः परस्परानुरागे उत्तमः ; यथा—(गास. १.९८)
रमिऊण पअं वि/पि गओ जाहे उवऊहिउं पडिणिउत्तो।
अहअं पउत्थपइ/अ व्व तक्खणं सो पवासि व्व॥ ७५॥
१. चण्डिलो नापित इति देशीनाममालाव्याख्या।
(रन्त्वा पदमपि गतो यदोपगूहितुं प्रतिनिवृत्तः।
अहं प्रोषितपतिकेव तत्क्षणं स प्रवासीव॥)
१.१.२ (ख) योषिदनुरागे मध्यमः ; यथा—(गासः २.९४)
सा तुइ सहत्थदिण्णं अज्ज वि ओ सुहअ! गंधरहिअं पि।
उव्वसिअ—णअरघरदेवअ व्व णो/ओमालिअं वहइ॥ ७६॥