विप्रलम्भे यथा—(गास. १.८८)
जाणइ जाणावेउं अणुणअविद्दविअमाणपरिसेसं।
पवइरिक्कम्मि वि विणआवलंबणं स च्चिअ कुणंती॥ ८३॥
(जानाति ज्ञापयितुमनुनयविद्रावितमानपरिशेषम्।
विजने/व्यतिरिक्तेऽपि विनयावलंबनं सैव सत्यं कुर्वती॥)
प्रगल्भाया उत्तमत्वं सम्भोगे यथा—(अमरु. ७५)
कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतम्।
असहनसखीश्रोत्रप्राप्तिप्रमादससंभ्रमं विवलितदृशा शून्ये गेहे समुच्छ्वसितं पुनः॥ ८४॥
विप्रलम्भे यथा—(रत्ना. २.२१)
भ्रूभेदे सहसोद्गतेऽपि वदनं नीतं परां नम्रताम्॥ ८५॥