भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 391 to 400 of 481 verses
भूमिः कण्टकिनी पुरो विटपिनः प्रायो बहूपद्रवा भूयः सैष दिवाकरो मृगयते सन्ध्यावधूसङ्गमम्।

का वा ते पथिक! त्वराऽद्य गमने ग्राम्ये विधेये जने प्रातः श्रान्तविनोदितेन मनसा स्थातासि गन्तासि वा॥ ९०॥

लङादिवाच्यो वर्तमानो यथा—(मामा. १.४४)

प्रसरति परिमाथी कोऽप्ययं देहदाह— स्तिरयति करणानां ग्राहकत्वं प्रमोहः।

रणरणकविवृद्धिं बिभ्रदावर्तमानं ज्वलति हृदयमन्तस्तन्मयत्वं च धत्ते॥ ९१॥

स एव भूतासन्नो भूतसामीप्यो यथा—(उराच. ६.३० )

विना सीतादेव्या किमिव हि न दुःखं रघुपतेः प्रियानाशे पुंसां जगदिदमरण्यं हि भवति।

स च स्‍नेहस्तावानयमपि वियोगो निरवधिः किमेवं त्वं पृच्छस्यनधिगतरामायण इव॥ ९२॥

भविष्यदासन्नो भविष्यत्सामीप्यो यथा—(कुसं. ४.२० )

इयमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयिनी भवामि ते।

Showing 391 to 400 of 481 verses