चतुरैः सुरसुन्दरीजनैः प्रिय! यावन्न विलोभ्यसे दिवि॥ ९३॥
लिङादिवाच्योऽव्यक्तः। यथा—(रत्ना. २.१९ )
प्रसीदेति ब्रूयामिदमसति कोपे न घटते करिष्याम्येवं नो पुनरिति, भवेदभ्युपगमः।
न मे दोषोऽस्तीति त्वमिदमपि विज्ञास्यसि मृषा किमेतन्मे वक्तुं क्षममिति न वेद्मि प्रियतमे!॥ ९४॥
लृङ्गादिवाच्योऽतिपन्नः। यथा— (मवीच. १.२७)
रामाय पुण्यमहसे सदृशाय सीता दत्तैव दाशरथिचन्द्रमसेऽभविष्यत्।
आरोपणेन पणमप्रतिकार्यमार्य— स्त्रैयम्बकस्य धनुषो यदि नाकरिष्यत्॥ ९५॥
धातुसम्बन्धोत्पन्नप्रत्ययवाच्यः सङ्कीर्णः। यथा—(कुसं. ५.१४)
अतन्द्रिता सा स्वयमेव वृक्षकान् घटस्तनप्रस्त्रवणैर्व्यवर्धयत्।
गुहोऽपि येषां प्रथमाप्तजन्मनां न पुत्रवाल्लभ्यमपाकरिष्यति॥ ९६॥