१. (१.१) लवकाष्ठाक्षणनिमेषनाडिकामुहूर्तप्रहराहोरात्ररूपः शाश्वतिकः।
क्षणे निमेषे नाड्यां वा मुहूर्ते प्रहरेऽपि वा।
गते त्वमेष्यसीत्युक्ते रुरोद पथिकप्रिया॥ ९७॥
२. (१.२) दिनरात्रिपक्षमासर्त्वयनरूपो वैकल्पिकः।
संक्षिप्येत क्षणमिव कथं दीर्घयामा त्रियामा सर्ववस्थास्वहरपि कथं मन्दमन्दातपं स्यात्।
इत्तं चेतश्चटुलनयने! दुर्लभप्रार्थनां मे गाढोष्णाभिः क्षतमशरणं त्वद्वियोगव्यथाभिः॥ ९८॥
३. (१.३) संवत्सरयुगकल्पमन्वन्तरप्रलयमहाप्रलयरूपो नैयोगिकः।