(क्रियापरिच्छेदिनः कालाः —१२)
त एते द्रव्यात्मानः क्रियात्मानो वा क्रियापरिच्छेदिनः कालाः।
अथापरे द्रव्यात्मानः क्रियासाधनरूपा विद्यन्ते।
नित्यो, नैमित्तिकः, स्वभाविको वैपरामर्शिक इति। तेषु —
१. नित्यः — शाश्वतिको, वैकल्पिको, नैयोगिकश्च।
२. नैमित्तिकः — औद्योगिक, औपभोगिकः, प्रायोगिकश्च।
३. स्वभाविकः — आगन्तुको, नैसर्गिकः, सांसर्गिकश्च।
४. वैपरामर्शः — सङ्कीर्णः, प्रकीर्णो, विप्रकीर्णश्च,
इति प्रत्येकं त्रैविध्याच्चत्वारोऽपि ते द्वादश भवन्ति। तेषु —