NOTES pg=1215! १. अत्र क्रमप्राप्तं वाक्यनिरूपणं ३२५२ मात्रिकायां नोपलभ्यते। २. सम्यक्=दम्यः
(३. प्रयोगविधिप्रमाणानि —६)
अवगते च प्रधानाङ्गभावे क्रमापेक्षा। तत्र प्रयोगविध्यपेक्षितप्रतिपादकानि श्रुत्यर्थादीनि षट् प्रमाणानि श्रुतिः, अर्थः, पाठः, स्थानं, मुख्यं, प्रावृत्तिकमिति।
पौर्वापर्येणानुष्ठानं क्रमः। स
१. श्रौतो यथा—(रघु. ६.५०)
सम्भाव्य भर्तारममुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये।
बृन्दावने चैत्ररथादनूने निर्विश्यतां सुन्दरि यौवनश्रीः॥ ८८॥
अत्र सम्भाव्येति पूर्वकाले क्त्वाश्रुतेः श्रौतः क्रमः।
ईसं जणेंति दावेंति वम्महं विप्पिअं सहावंति।