भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 401 to 410 of 488 verses
असौ कुमारस्तमजोऽनुजातः त्रिविष्टपस्येव पतिं जयन्तः।

गुर्वीं धुरं यो भुवनस्य पित्रा धुर्येण २सम्यक्सद्‍ृशीं बिभर्ति॥ ८६॥

अत्र राज्यधुरोद्वहनादिसादृश्यात् पितृसन्निधौ श्रूयमाणस्य स्थानतस्तद्गौर— वाभ्युपपत्तिः।

६. समाख्यातो यथा—

सच्‍चं सण्णा धण्णा जा तइआ केसवेण गिरिधरणे।

गुरुभारवावडेण वि तिरिअं अच्छं चिरं दट्ठा॥ ८७॥

(सत्यं संज्ञा धन्या या तदा केशवेन गिरिधरणे।

गुरुभारव्यापृतेनापि तिर्यगक्षं चिरं द्‍ृष्टा॥)

अत्र धन्येति समाख्याबलात् सदैव तस्याः प्रियप्रसादपात्रत्व एव विनियोगः। एवमेतत्प्रधानविशेषभावाद् विनियोजकं प्रमाणषट्कम्।

अत्रापि कर्मणः कारकस्य वा शेषभाव इति समानं पूर्वेण।

Showing 401 to 410 of 488 verses