इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विवव्रुः॥ ८२॥
अत्रेयमिति सर्वनामपदप्रयोगात् न ज्ञायते का सा इति। अभेदे प्राप्ते स्वयंवरप्रस्तावादिन्दुमतीति प्रकरणान्तराद् भेदः।
एवमेतद्भेदकं प्रमाणान्तरतो विवेकहेतुर्भेदः। स तु क्रियार्थोपाधिभेदात् कारकभेदाद्वा भवति। नात्र कनीयानपि विशेषः। योषाञ्च कार्येऽर्थे वे(भे)दस्य प्रामाण्यं तेषां मते सान्ध्यं क्रिया न भिनत्तीति१। सिद्धे च भेदे प्रधानाङ्गभावविवक्षा।
(२. विनियोगविधिप्रमाणानि —६)
तत्र विनियोगाविध्यपेक्षितशेषभावप्रतिपादकानि श्रुतिलिङ्गादीनि षट् प्रमाणानि— श्रुतिः, लिङ्गं, वाक्यं, प्रकरणं, स्थानं, समाख्येति ।
१. श्रुतितो यथा—(रघु. ६.३५)
अनेन यूना सह पार्थिवेन रम्भोरु! कच्चिन्मनसो रुचिस्ते।
शिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरम्परासु॥ ८३॥
अत्रानेनेत्यादितृतीयाश्रुत्या पार्थिवस्याङ्गभावः प्रतिपाद्यते। तृतीया हि षष्ठीवदप्रधानादेव।