कला च सा कान्तिमती कलावत— स्त्वमस्य लोकस्य च नेत्रकौमुदी॥ ८०॥
NOTES pg=1213! १. मैथिली = पार्थिवी, ललितवाचमू = तदनुजामथो इति पाठान्तराणि।
अत्र कपालिसमागमप्रार्थनया भेदे प्राप्ते द्वयमिति सङ्ख्यातो भेदः।
५. गुणाद् भेदो यथा—(रघु. ६.६०)
पाण्डयोऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन।
आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः॥ ८१॥
अत्र पाण्डयोऽयमित्युक्तेऽनेकराजन्यसमानाभिहारान्न ज्ञायते कोऽसाविति।
अंसार्पितलम्बहारत्वादिभेदक—विशेषगुणयोगात्तु भिद्यते।
६. प्रकरणान्तराद् भेदो यथा—(रघु. ६.८५)
शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जह्नुकन्यावतीर्णा।