पिसुणजणजप्पिएण वि अवेइ एमेअ वि अवेइ॥ ७८॥
(अदर्शनेन प्रेमापैत्यतिदर्शनेनाप्यपैति।
पिशुनजनजल्पितेनाप्यपैत्येवमेवाप्यपैति ॥)
अत्रादर्शनादिभिः प्रेमापैतीति वाच्ये अपैतीति पदाभ्यासः प्रेमभेदं बोधयति। कस्याचिद्दर्शनेन, कस्यचिददर्शनेन, कस्यचित्पिशुनजनजल्पितेन, कस्यचिदेवमेवेति।
३. संज्ञाभेदो यथा—(रघु. ११.५३)
मैथिलीमुदवहद् रघूद्वहो लक्ष्मणो ललितवाचमूर्मिलाम्।
यौ तयोरवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे॥ ७९॥१
अत्र रघूद्वहत्वमैथिलीत्वाभ्यां भेदे प्राप्ते लक्ष्मण ऊर्मिलामुदवहदिति संज्ञातो भेदः।
४. सङ्ख्यातो भेदो यथा—(कुसं. ५.७१)
द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः।