शब्दान्तरम्, अभ्यासः, संज्ञा, सङ्ख्या, गुणः, प्रकरणमिति।
स्वरूपपरो हि विधिर्भिनत्ति कर्मेति। तत्र —
बंदं कीराण णहे पहिआण पहे मआण छेत्तम्मि।
तुह कलमगोवि छीका—रव—रणिअं ण चलइ पअं पि॥ ७७॥
(बृन्दं कीराणां नभसि पथिकानां पथि मृगाणां क्षेत्रे।
तव कलमगोपि! स्तोकारवरेटितं न चलति पदमपि॥)
तत्र नभसि क्षेत्रे चैकमेव बृन्दमिति प्राप्ते कीरपथिकमृगशब्दान्तरेभ्यो भेदः।
२. अभ्यासाद् भेदो यथा—(गास. १.८१)
अदंसणेण पेम्मं अवेइ अइदंसणेण वि अवेइ।