अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्क्रिया॥ ७२॥
नियममिषेधो यथा—(मामा. १.३९)
'जगति जयिनस्ते ते भावा नवेन्दुकलादयः'॥ ७३॥
परिसङ्ख्यानिषेधो यथा—(विक्र. ३.११)
अयं तस्या रथक्षोभादंसेनांसो निपीडितः।
एकः कृती शरीरेऽस्मिन् शेषमङ्गं भुवो भरः॥ ७४॥
विधिश्च विधिरूपो निषेधरूपो वा प्रयोजकाप्रयोजकतया द्विरूपः।
तत्र च साधारणे कर्मण्येकस्य प्राधान्येन हेतुत्वं प्रयोजकता। स—