द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः॥ ६९॥
विकल्पविधानं यथा—(कुसं. २.६०)
उभे एव क्षमे वोढुमुभयोर्वीर्यमाहितम्।
सा वा शम्भोस्तदीया वा मूर्तिर्जलमयी मम॥ ७०॥
समुच्चयविधानं यथा—(शाकु. ३.१७)
परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे।
समुद्ररशना चोर्वी सखी च युवयोरियम्॥ ७१॥
नञादिनिषेधो यथा—(कुसं. ५.७३)
निवर्तयास्मादसदीप्सितान्मनः क्व तद्विधस्त्वं क्व च पुण्यलक्षणा।