४. करोति स्थापयत्यनेन मरणजीवितयोरेकत्रेति करुणः। यथा—(कुसं. ४.४६)
इत्थं रतेः किमपि भूतमदृश्यरूपं मन्दीचकार॥ ७१॥
५. करोति अभ्यञ्जयति बहिरन्तश्च व्याप्नोति विस्रम्भोत्पत्त्या स्त्रीपुंसयोरन्यतरस्यायं हृदयमिति करुणः। यथा—(उराच. ३.२३)
विलुलितमपि पूरैर्बाष्षमानन्दशोक— प्रभवमवसृजन्ती पक्ष्मलोत्तानदीर्घा।
स्नपयति हृदयेशं स्नेहनिष्यन्दिनी ते धवलमधूरमुग्धा दुग्धकुल्येव दृष्टिः॥ ७२॥
सोऽयं विप्रलम्भादिषूपसर्जनीकृतप्रत्ययार्थः प्रकृत्यर्थ उपवर्णितः।
(विप्रलम्भस्य प्रत्ययार्थः)
अथोपसर्जनीकृतप्रकृत्यर्थः प्रत्ययार्थो वर्ण्यते। तत्र भावः, कर्म, करणं सम्प्रदानं, अपादानं, अधिकरणं, कर्ता, हेतुकर्ता, भावकर्ता, कर्मकर्ता, कर्तृकर्म, भावकर्मेति प्रत्ययार्थाः। तेषु —