तमःप्रकृतेः कनिष्ठकनिष्ठस्य विप्रलम्भेऽनुभावसम्पद् यथा—(वेसं. २.१२)
यस्मिंश्चिरप्रणयनिर्भरबद्धभावमावेदितो रहसि मत्सुरतोपभोगः।
तत्रैव दुश्चरितमद्य निवेदयन्ती ह्रीताऽसि पापहृदये न सखीजनेऽस्मिन्॥ ६८॥
अस्यैव सम्भोगे यथा—(वेसं. २.१३)
दिष्टयाऽर्धश्रुतविप्रलम्भवचनः क्रोधादहं नोद्गतो दिष्टया नो परुषं रुषाऽर्धकथिते किञ्चिन्मया व्याहृतम्।
मां प्रत्याययितुं विमूढहृदयं दिष्ट्या गताऽन्तं कथा मिथ्या दूषितयाऽनया विरहितं दिष्ट्या न जातं जगत्॥ ६९॥
तत्र धीरोत्तमाया विप्रलम्भेऽनुभावसम्पद् यथा—
ण कओ वि वाह/राह—मोक्खो माणक्खलणे वि ण पडिओ च्चिअ बाहो।
तीएँ णवरं पिअअमो गत इति अइत्तलोअणं णीससिअं॥ ७०॥
(न कृतोऽपि राग/बाष्पमोक्षो मानस्खलनेऽपि न पतित एव बाष्पः।