तो से रुब्भंत च्चिअ हिअअविअंभंतहरिस—वेउच्छलिआ।
पाअपडिअस्स हरिणो पडिआ पुट्ठीए वाहसलिलत्थे॥ ७३॥
(ततस्तस्या रुध्यमाना एव हृदयविजृम्भमाणहर्षवेगोच्छलिताः।
पादपतितस्य हरेः पतिताः पृष्ठे बाष्पसलिलबिन्दवः॥)
अधीरोत्तमाया विप्रलम्भेऽनुभावसम्पद् यथा—
जाव अ ण देइ ओहिं परिरंभं जाव णेअ सिढिलेइ।
मरणेण पुणो अअं मह तावग्गरुआविओ अप्पा॥ ७४॥
(यावच्च न ददात्यवधिं परिरम्भं यावन्नैप शिथिलयति।
मरणेन पुनरयं मम तावद् गुरूकृत आत्मा॥)
तस्या एव सम्भोगे यथा—(सक. ५.१४८)