कृतवानसि विप्रियं न मे प्रतिकूलं च न ते मया कृतम्।
किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते॥ ७६॥
किञ्चिन्मुद्रितपांसवः शिखिकूलैः सानन्दमालोकिता भग्नावासरुदद्दरिद्रगृहिणीश्वासानिलैर्जर्जराः ।
एते ते निपतन्ति नूतनघनात् प्रावृड्भरारम्भिणो विच्छायीकृतविप्रयुक्तवनितावक्त्रेन्दवो बिन्दवः॥ ७७॥
यस्यां ते दिवसास्त्वया सह तथा नीताः पुनः स्वे गृहे यत्सम्बद्धकथाभिरेव सुचिरं दीर्घाभिरस्थीयत।
एकः सम्प्रति नाशितप्रियतमस्तामेव पापः कथं रामः पञ्चवटीं विलोकयतु वा गच्छत्वसंभाव्य वा॥ ७८॥
यत् त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं॥ ७९॥