अवचनं वचनं प्रियसन्निधावनवलोकनमेव विलोकनम्।
अवयवावरणं हि यदंशुकव्यतिकरेण तदङ्गसमर्पणम्॥ ७३॥
पश्यामि तामित इतश्च पुरश्च पश्चा— दन्तर्बहिः परित एव च वर्तमानाम्।
उद्बुद्धमुग्धकनकाब्जनिभं वहन्ती— मासङ्गि तिर्यगपवर्तितदृष्टि वक्त्रम्॥ ७४॥
अविरलमिव दाम्ना पौण्डरीकेण नद्धः स्नपित इव च दुग्धस्रोतसा निर्भरेण।
कबलित इव कृत्स्न चक्षुषा स्फारितेन प्रसभममृतमेघेनेव सान्द्रेण सिक्तः॥ ७५॥
सम्प्रदानं यथा—(कुसं. ४.७)