भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 311 to 320 of 481 verses
हृदयान्नापयातोऽसि दिक्षु सर्वासु दृश्‍यसे।

वत्स राम! गतोऽसीति सन्तापादनुमीयसे॥ ६७॥

प्राणाः प्रयान्ति परितस्तमसाऽऽवृतोऽस्मि मर्मच्छिदो मम रुजः प्रतरन्त्यपूर्वाः।

अक्ष्णोर्मुखेन्दुमुपधेहि, गिरं च देहि हा पुत्र! मय्यकरुणः सहसैव मा भूः॥ ६८॥

(मवीच. ४.५५)

२. यदा तु करोतेरभूतप्रादुर्भावनाद्यर्थवाचिनः करुण इति रूपं, तदा स्‍त्रीपुंसविषय आयोजितकामसूत्रः पुनस्समागमफलोऽनुराग एव करुणशब्देनोच्यते। तद् यथा— दुःखातिरेकान् भूतान् करोति प्रादुर्भावयतीति करुणः। यथा—(मामा. ९.२०)

मातर्मातर्दलति हृदयं, ध्वंसते देहबन्धः शून्यं मन्ये जगदविरतज्वालमन्तर्ज्वलामि।

सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा विष्वङ्‍मोहः स्थगयति, कथं मन्दभाग्यः करोमि?॥ ६९॥

३. करोति उच्‍चारयति विलापादिभिस्तद्गुणमिति करुणः। यथा—(कुसं. ४.४)

अथ सा पुनरेव विह्वला॥ ७०॥

Showing 311 to 320 of 481 verses