भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 301 to 310 of 481 verses
वसने परिधूसरे वसाना नियमक्षामतनुः कृशैकवेणिः।

अतिनिष्करुणस्य शुद्धशीला मम दीर्घां विरहव्यथां बिभर्ति॥ ६६॥

(करुणः)

अनुराग एवान्यतरविनाशे दुःखानुभवादिभिः करुणसंज्ञो भवति।

का पुनः करुणे निरुक्तिः?

उच्यते। करोतेः किरतेर्वा 'कॄवृतृदारिभ्य उनन्' इत्यौणादिके कर्तर्युनन्प्रत्यये करुण इति रूपं भवति। तत्रायं करोतिरभूतप्रादुर्भावोच्‍चारणनिक्षेपाभ्यङ्गेषु वर्तते। यथा—घटं करोति, पटं करोति; अभूतमुत्पादयतीति गम्यते। चोरंकारमाक्रोशति, दस्युङ्कारमाक्रोशति; चोरोऽसि दस्युरसीत्युच्‍चार्य क्रोशतीति गम्यते।

घटे कुरु, वृतः, घटे/कटे कुरु, कृतानं/उत्तानं, अश्‍मानमितः कुरु निक्षिपेति गम्यते। पादौ कुरु, पृष्ठं, कुरुः घृतेन तैलेन वा उन्मृदानेति गम्यते॥

किरतिस्तु विक्षेपे पठ्यते। विशिष्टस्य क्षेपो विक्षेपः; विशेषास्तु अस्य वैविध्यं विरुद्धता, व्याविद्धत्वम्, प्रतिषेध इति। तत्र

१. यदा किरतेः करुण इति रूपं, तदा विविधो व्याविद्धो विप्रतिषिद्धश्च दीर्घशोक एव करुणशब्देनोच्यते। स हि प्राणिनं सांसारिकेभ्यः सुखेभ्यो विक्षिपति।

यथा— (बारा.)

Showing 301 to 310 of 481 verses