भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 291 to 300 of 481 verses
२. प्रकर्षेण वासयति अनुरञ्जयति तन्मयतां नयति कामिनश्चित्तमिति वा प्रवासः।

यथा—(मेघ. १००)

अङ्गेनाङ्गं प्रतनु तनुना गाढं॥ ६४॥

इत्यादि

३. यदि वा प्रपूर्वो वसिर्णिजन्तः प्रमापणे वर्तते; यथा तूष्णीमेनं प्रवासयेत् इति।

ततश्च प्रवास्यन्ते हन्यन्ते वियोगिन इति प्रवासः। यथा—(अमरु. १३१)

ग्रामेऽस्मिन् पथिकाय पान्थ! वसतिर्नैवाधुना दीयते रात्रावत्र विहारमण्डपतले पान्थः प्रसुप्‍तो युवा।

तेनोत्थाय खलेन गर्जति घने स्मृत्वा प्रियां तत् कृतं येनाद्यापि करङ्कदण्डपतनाशङ्की जनस्तिष्ठति॥ ६५॥

एते त्रयोऽपि वतस्यर्थाः।

४. अथ वस्तेरर्थः। आवसते आच्छादयन्त्यस्मिन् वियोगिन्यो विशेषवेषादिकमिति प्रवासः। यथा—(शाकु. ७.२१)

Showing 291 to 300 of 481 verses