सद्भावचाटुकं यत्र नास्ति स्नेहस्तत्र नास्ति॥}
४. मिमीते परि(च्छि)नत्ति प्रेम्णः प्रमाणमसाविति मानः। यथा—(हवि.)
कुविआ अ सच्चभामा समे वि वहुआँण णवर माणक्खलणे।
पाअडिअहिअअसारो पेमासंघसरिसो पअट्टइ मण्णू॥ ६२॥
(कुपिता च सत्यभामा समेऽपि वधूनां केवलं मानस्खलने।
प्रकटितहृदयसारः प्रेमाशंसासदृशः प्रवर्तते मन्युः॥)
कथं पुनर्मान इति ल्युडन्तस्य पुंसि प्रयोगः ?
यथाऽऽह महाभाष्यकारः — (मभा. १.३.१)
अस्ति क्रिया, किं तु साधनेभ्यः पृथागाख्यातुमशक्यम्, अनिर्लुठितगर्भवत्।